॥ महागणपतिस्तोत्रं ॥

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।।

भक्तावासं स्मरेनित्यमायु:सर्वकामार्थसिध्दये ।।१।।

प्रथमं वक्रतुंड च एकदन्तं द्वितीयकम्।

तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्।। २।।

लंबोदरं पंचमं च षष्ठं विकटमेव च।

सप्तमं विघ्न राजेन्द्रं धूम्रवर्णं तथाष्टमम्।।3।।

नवमं भालचंद्रं च दशमं तु विनायकम्।

एकादशं गणपतिं द्वादशं तु गजाननम्।। ४।।

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य सर्वसिध्दिकरं प्रभो।। ५।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।। ६।।

जपेत् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।

संवत्सरेण सिध्दिं च लभते नात्र संशयः।। ७।।

अष्टभ्यो ब्राम्हाणेभ्यश्च लिखित्वा यः समर्पयेत्।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः।। ८।।

इति श्री नारदपुराणे संकटनाशनं नाम महागणपतिस्तोत्रं संपूर्णम्।।